आरंभ
×

ओ३म्

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~

अद्य गुरुपूर्णिमा पर्व अस्ति
= आज गुरुपूर्णिमा पर्व है ।

परमेश्वरः सर्वेषां सर्वप्रथमः गुरुः अस्ति
= परमेश्वर सबके सर्वप्रथम गुरु हैं ।

माता अस्माकं प्रथमा गुरुः भवति
= माँ हमारी पहली गुरु होती है ।

पिता अपि ज्ञानदाता भवति
= पिता भी ज्ञानदाता होता है ।

गुरुः मातुः सदृशं स्नेहं ददाति
= गुरु माँ की तरह स्नेह देते हैं ।

गुरुः पितुः सदृशम् अनुशासनम् अपि करोति
= गुरु पिता के समान अनुशासन भी करते हैं ।

गुरुः ज्ञानम् अपि ददाति
= गुरु ज्ञान भी देते हैं ।

अस्माकम् अज्ञानं दूरीकरोति
= हमारा अज्ञान दूर करते हैं ।

अस्माकम् आत्मोन्नतिः कथं भवितुं शक्यते
= हमारी आत्मोन्नति कैसे हो सकती है

तस्य पथप्रदर्शकः तु गुरुः एव
= उसके पथप्रदर्शक तो गुरु ही हैं ।

यथा वयं मातुः पितुः च आज्ञापालनं कुर्मः
= जैसे हम माँ की पिता की आज्ञा का पालन करते हैं

तथैव गुरोः आज्ञापालनं करणीयम्
= उसी प्रकार गुरु की आज्ञा का पालन करना चाहिये ।

गुरुपूर्णिमा-पर्वणः सर्वेभ्यः शुभकामनाः
= गुरुपूर्णिमा पर्व की सभी को शुभकामनाएँ ।

 टिप्पणियाँ 0
 बढ़िया 0
 लहरायें 0
 पसंदीदा 0




प्रयोग करें (Login)
~परिचर्चा से जुड़ें
@मित्र आमंत्रित करें

Get it on Google Play