ॐ ।। सरलसंवाद: ।
राम: -- महोदय ! भवान् कुत्र अस्ति ?
नीलेश: -- महोदय ! अहं मम कार्यालये अस्मि ।
राम: -- महोदय ! भवान् अधुना किं करोति ?
नीलेश: -- महोदय ! अहम् अधुना फेसबूकमध्ये संस्कृतस्य सरललेखं लिखामि ।
नीलेश: -- महोदय ! भवान् कुत्र अस्ति ?
राम: -- महोदय ! अहं विद्यालये अस्मि ।
नीलेश: -- महोदय ! भवान् अधुना किं करोति ?
राम: -- महोदय ! अहम् अधुना संस्कृताभ्यासं करोमि ।
नीलेश: -- अस्तु । पुन: मिलाम ।
राम: -- अस्तु । ॐ ।।